श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालय

वृन्दावनम् , मथुरा , उ.प्र. - २८११२१

( भारतसर्वकारस्य शिक्षा मन्त्रालयाधीनादर्शयोजनान्तर्गतः तथा केन्द्रीयसंस्कृतविश्वविधालयाधीनः)

अस्माकं विद्यालयस्य विषये

श्रीरंगलक्ष्मी-आदर्श- संस्कृत-महाविद्यालय-वृन्दावनम् (मथुरा)

उत्तरभारते श्रुतिस्मृतिसिद्धविशिष्टाद्वैतदर्शनस्य प्रचारप्रसारस्य प्रमुखं केन्द्रं श्रीधाम्नि वृन्दावने स्थितं श्रीरंगमन्दिरं वर्तते। इदं दिव्यदेशेति नाम्नापि प्रसिद्धम्। । अस्य दिव्यदेशस्य स्थापना परमपूज्यैरनन्तश्रीविभूषितैः श्रीरंगदेशिकस्वामिवर्यैः (गोवर्धनपीठाधीशैः) चतुरधिक-एकोनविंशतिशततमे वर्षे (संवत् १९०४) कृता। तेषां विद्वत्प्रवरशिष्येष्वन्यतमाः श्रीसुदर्शनाचार्य-श्रीलक्ष्मणाचार्य-श्रीगोविन्ददासप्रभृतयः महाराजं श्रीस्वामिनं निवेदितवन्तो यत् श्रीगुरुमातुः श्रीलक्ष्म्यम्बायाः स्मरणं सततं भवेत् सुधीजनानाञ्च श्रुतिदुग्धामृतं सदा प्रवहेत्। एतदर्थं संस्कृतेः संरक्षणाय संस्कृतस्य विकासाय च एकस्य संस्कृतमहाविद्यालयस्य स्थापना स्यादिति, तेषां निवेदनं श्रूत्वा स्वामिवर्याः सम्मतिं दत्तवन्तः, स्वामिनोऽनुमतिं लब्ध्वानन्तरं षडुत्तरैकोनविंशतिशततमे वर्षे (विक्रमसंवत् १९०६) श्रीरंगलक्ष्म्यादर्शसंस्कृतमहाविद्यालयस्य स्थापना जाता। विद्यालयोऽयं दि.0१.0७.१९७८तः भारतसर्वकारस्यादर्शायोनान्तर्गतगृहीतोऽस्ति ।
इतः पूर्वं विद्यालयोऽयं उत्तरप्रदेशशासनस्यानुदानेन संचालित आसीत् । सर्वप्रथमं राजकीयसंस्कृतकॉलेजवाराणस्याः कक्षाः तदनन्तरं वाराणसीसंस्कृतविश्वविद्यालयवाराणस्याः कक्षाः तत्पश्चात् अद्यतने सम्पूर्णानन्दसंस्कृतविश्वविद्यालयवाराणसी द्वारा शास्त्री एवंम आचार्यस्य कक्षाः सञ्चचालिताः सन्ति । एवमयं महाविद्यालयः १७४ वर्षेभ्यः सततं संस्कृतस्य संस्कृतेः दर्शनस्य च प्रचारप्रसाराय बद्धपरिकरो वर्तते। अनेक विशिष्टा विद्वांसः महाविद्यालयस्य प्राचार्यपदे समासीनो भूत्वा महाविद्यालयस्य विकासायैव कार्यं कृतवन्तः। श्रीसुदर्शनाचार्यशास्त्रिणः, महाराजाः श्रीगरुडध्वजाचार्यः, अमोलकरामजी शास्त्रिण: श्री सीतारामाचार्याः, श्रीरामलखनपाण्डेयाः, श्रीरामादर्शपाण्डेयाः, ( एतेषां महानुभावानां कार्यकाल एव भारतसर्वकारः महाविद्यालयम्, आदर्शयोजनायां गृहीतवान् आसीत् ) डॉ मरारिलालचतुर्वेदी महोदयाः, डॉ रामकृपालत्रिपाठिप्रभृतयः पदेऽस्मिन् सुशोभितवन्तः। एवं कार्यवाहकरूपेणापि प्राचार्यपदे अधोलिखिता आचार्या नियुक्ताः- श्रीरासविहारीलालगोस्वामिनः श्रीसदाशिवशास्त्रिणः, श्रीहिरालालशास्त्रिणः, डॉ प्राणगोपालाचार्यशास्त्रिणः, आचार्यरामसुदर्शनमिश्रवर्या आसन। वर्तमाने कार्यवाहकत्वेन डॉ अनिलानन्दमहोदयाः प्राचार्यस्य कार्यं सम्पादयन्तः सन्ति ।